|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.345. अध्यायः 345
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति उपरिचरवसोः शापप्राप्तितद्विमोचनप्रकारकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-345-0x(6572)(79559)
यदा भक्तो भगवति आसीद्राजा महान्वसुः।
किमर्थं स परिभ्रष्टो विवेश विवरं भुवः॥ 12-345-1(79560)
भीष्म उवाच। 12-345-2x(6573)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ऋषीणां चैव संवादं त्रिदशानां च भारत॥ 12-345-2(79561)
`इयं वै कर्मभूमिः स्यात्स्वर्गो भोगाय कल्पितः।
तस्मादिन्द्रो महीं प्राप्य यजनाप तु दीक्षितः॥ 12-345-3(79562)
सवनीयपशोः काल आगते तु बृहस्पतिः।
पिष्टमानीयतामत्र पश्वर्थमिति भाषत॥ 12-345-4(79563)
तच्छ्रुत्वा देवताः सर्वा इदमूचुर्द्विजोत्तमम्।
बृहस्पतिं मांसगृद्धाः पृथक्पृथगिदं पुनः॥' 12-345-5(79564)
अजेन यष्टव्यमिति प्राहुर्देवा द्विजोत्तमान्।
स च छागोप्यजो ज्ञेयो नान्यः पशुरिति स्थितिः॥ 12-345-6(79565)
ऋषय ऊचुः। 12-345-7x(6574)
बीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः।
अजसंज्ञानि बीजानि च्छागं नो हन्तुमर्हथ॥ 12-345-7(79566)
नैष धर्मः सतां देवा यत्र बध्येत वै पशुः।
इदं कृतयुगं श्रेष्ठं कथं वध्येत वै पशुः॥ 12-345-8(79567)
भीष्म उवाच। 12-345-9x(6575)
तेषां संवदतामेवमृषीणां विबुधैः सह।
मार्गागतो नृपश्रेष्ठस्तं देशं प्राप्तवान्वसुः॥ 12-345-9(79568)
अन्तरिक्षचरः श्रीमान्सहस्रबलवाहनः।
तं दृष्ट्वा सहसाऽऽयान्तं वसुं ते त्वन्तरिक्षगम्॥ 12-345-10(79569)
ऊचुर्द्विजातयो देवानेष च्छेत्स्यति संशयम्।
यज्वा दानपतिः श्रेष्ठः सर्वभूतहितप्रियः।
कथंस्विदन्यथा ब्रूयादेष वाक्यं महान्वसुः॥ 12-345-11(79570)
एवं ते संविदं कृत्वा विबुधा ऋषयस्तथा।
अपृच्छन्सहिताऽभ्येत्य वसुं राजानमन्तिकात्॥ 12-345-12(79571)
भो राजन्केन यष्टव्यमजेनाहोस्विदौषधैः।
एतन्नः संशयं छिन्धि प्रमाणं नो भवान्मतः॥ 12-345-13(79572)
स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः।
कस्य वै को मतः पक्षो ब्रूत सत्यं द्विजोत्तमाः॥ 12-345-14(79573)
ऋषय ऊचुः। 12-345-15x(6576)
धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप।
देवानां तु पशुः पक्षो मतो राजन्वदस्व नः॥ 12-345-15(79574)
भीष्म उवाच। 12-345-16x(6577)
देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात्।
छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा॥ 12-345-16(79575)
कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः।
ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम्॥ 12-345-17(79576)
सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत।
अद्यप्रभृति ते राजन्नाकाशे विहता गतिः॥ 12-345-18(79577)
अस्माच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि।
` विरुद्धं वेदसूत्राणामुक्तं यदि भवेन्नृप।
वयं विरुद्धवचना यदि तत्र पतामहे॥' 12-345-19(79578)
ततस्तस्मिन्मुहूर्तेऽथ राजोपरिचरस्तदा।
अधो वै संबभूवाशु भूमेर्विवरगो नृप॥ 12-345-20(79579)
स्मृतिस्त्वेवं न विजहौ तदा नारायणाज्ञया॥ 12-345-21(79580)
देवास्तु सहिताः सर्वे वमोः शापविमोक्षणम्।
चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत्॥ 12-345-22(79581)
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना।
अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः॥ 12-345-23(79582)
इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः।
ऊचुः संहृष्टमनसो राजोपरिचरं तदा॥ 12-345-24(79583)
ब्रह्मण्य देवभक्तस्त्वं सुरासुरगुरुर्हरिः।
कामं स तव तुष्टात्मा कुर्याच्छापविभोक्षणम्॥ 12-345-25(79584)
मानना तु द्विजातीनां कर्तव्या वै महात्मनाम्।
अवश्यं तपसा तेषां फलितव्यं नृपोत्तम॥ 12-345-26(79585)
यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम्।
`विरुद्धं वेदसूत्राणां न वक्तव्यं हितार्थिना॥ 12-345-27(79586)
अस्मत्पक्षनिमित्तेन व्यसनं प्राप्तमीदृशम्।'
एकं त्वनुग्रहं तुभ्यं दद्मो वै नृप्रसत्तम।
यावत्त्वं शापदोषेण कालमासिप्यसेऽनघ॥ 12-345-28(79587)
भूमेर्विवरगो भूत्वा तावत्त्वं कालमाप्स्यसि।
यज्ञेषु सुहुतां विप्रैर्वसोर्धारां समाहितैः॥ 12-345-29(79588)
प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिराविशेत्।
न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः॥ 12-345-30(79589)
वसोर्धारामिपीतत्वात्तेजसाऽऽप्यायितेन च।
स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति॥ 12-345-31(79590)
एवं दत्त्वा वरं राज्ञे सर्वे ते च दिवौकसः।
ऋतुं समाप्य पिष्टेन मुनीनां वचनात्तदा॥' 12-345-32(79591)
गताः धमवनं देवा ऋषगश्च तपोधनाः।
`गृहीत्वा दक्षिणां सर्वे गतः स्वानाश्रमान्पुनः॥ 12-345-33(79592)
वसुं विचिन्त्य शक्रश्च प्रविनेशामरावतीम्।
वसुर्विवरगस्तत्र व्यलीकस्य फलं गुरोः॥' 12-345-34(79593)
चक्रे वसुस्ततः पूजां विष्वक्सेनाय भारत।
जप्यं जगौ च सततं नारायणमुखोद्गवम्॥ 12-345-35(79594)
तत्रापि पञ्चभिर्यज्ञैः पञ्चकालानरिंदम्।
अयजद्धरिं सुरपतिं भूमेर्विवरगोऽपि सन्॥ 12-345-36(79595)
ततोऽस्य तुष्टो भगवान्भक्त्या नारायणो हरिः।
अनन्यभक्तस्य सतस्तत्परस्य जितात्मनः॥ 12-345-37(79596)
वरदो भगवान्विष्णुः समीपस्थं द्विजोत्तमम्।
गरुत्मन्तं महावेगमावभाषेऽप्सितं तदा॥ 12-345-38(79597)
द्विजोत्तम महाभाग पश्यतां वचनान्मम।
सम्राड्राजा वसुर्नाम धर्मात्मा संशितव्रतः॥ 12-345-39(79598)
ब्राह्मणानां प्रकोपेन प्रविष्टो वसुधातलम्।
मानितास्ते तु विप्रेन्द्रास्त्वं तु गच्छ द्विजोत्तम्॥ 12-345-40(79599)
भूमेर्विवरसंगुप्तं गरुडेह ममाज्ञया।
अधश्चरं नृपश्रेष्ठं खेचरं कुरु माचिरम्॥ 12-345-41(79600)
गरुत्मानथ विक्षिप्य पक्षौ मारुतवेगवान्।
विवेश विवरं भूमेर्यत्रास्ते वाग्यतो वसुः॥ 12-345-42(79601)
तत एनं समुत्क्षिप्य सहसा विनतासुतः।
उत्पपात नभस्तूर्णं तत्र चैनममुञ्चत॥ 12-345-43(79602)
अस्मिन्मुहुर्ते संजज्ञे राजोपरिचरः पुनः।
सशरीरो गतश्चैव ब्रह्मलोकं नृपोत्तमः॥ 12-345-44(79603)
एवं तेनापि कौन्तेय वाग्दोषाद्देवताज्ञया।
प्राप्ता गतिरधस्तात्तु द्विजशापान्महात्मना॥ 12-345-45(79604)
केवलं पुरुषस्तेन सेवितो हरिरीश्वरः।
ततः शीघ्रं जहौ शापं ब्रह्मलोकमवाप च॥ 12-345-46(79605)
भीष्म उवाच। 12-345-47x(6578)
एतत्ते सर्वमाख्यातं संभूता मानवा यथा।
नारदोऽपि यथा श्वेतं द्वीपं स गतवानृषिः।
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकमना नृप॥ ॥ 12-345-47(79606)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 345॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-345-7 अजस्थस्म मेधस्य बीजेषु संक्रमाद्वीजान्येवाजसंज्ञानीति युक्तम्॥ 12-345-23 अस्य प्रतिक्रिया कार्येति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|